durga pancharatnam in hindi-दुर्गा पञ्च रत्नम्

durga pancharatnam in hindi
sree mata durga pancharatnam in hindi

 

 

ते ध्यानयोगानुगता अपश्यन्
त्वामेव देवीं स्वगुणैर्निगूढाम् |
त्वमेव शक्तिः परमेश्वरस्य
मां पाहि सर्वेश्वरि मोक्षदात्रि ‖ 1 ‖

देवात्मशक्तिः श्रुतिवाक्यगीता
महर्षिलोकस्य पुरः प्रसन्ना |
गुहा परं व्योम सतः प्रतिष्ठा
मां पाहि सर्वेश्वरि मोक्षदात्रि ‖ 2 ‖

परास्य शक्तिः विविधैव श्रूयसे
श्वेताश्ववाक्योदितदेवि दुर्गे |
स्वाभाविकी ज्ञानबलक्रिया ते
मां पाहि सर्वेश्वरि मोक्षदात्रि ‖ 3 ‖

देवात्मशब्देन शिवात्मभूता
यत्कूर्मवायव्यवचोविवृत्या
त्वं पाशविच्छेदकरी प्रसिद्धा
मां पाहि सर्वेश्वरि मोक्षदात्रि ‖ 4 ‖

त्वं ब्रह्मपुच्छा विविधा मयूरी
ब्रह्मप्रतिष्ठास्युपदिष्टगीता |
ज्ञानस्वरूपात्मतयाखिलानां
मां पाहि सर्वेश्वरि मोक्षदात्रि ‖ 5 ‖

इति परमपूज्य श्री चन्द्रशेखरेन्द्र सरस्वती स्वामि कृतं दुर्गा पञ्चरत्नं सम्पूर्णं |

About Ashok Kanumalla

Ahsok

Check Also

gayatri kavacham in hindi-गायत्री कवचम्

  नारद उवाच स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभो चतुषष्टि कलाभिज्ञ पातका द्योगविद्वर मुच्यते केन पुण्येन …

Leave a Reply

Your email address will not be published. Required fields are marked *