ganesha kavacham in hindi -गणेश कवचम्

ganesha kavacham in hindi
sree ganesha kavacham in hindi

 

एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो |
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ‖ 1 ‖

दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः |
अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ‖ 2 ‖

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् | ई
द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये
तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ‖ 3 ‖

विनायक श्शिखाम्पातु परमात्मा परात्परः |
अतिसुन्दर कायस्तु मस्तकं सुमहोत्कटः ‖ 4 ‖

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः |
नयने बालचन्द्रस्तु गजास्यस्त्योष्ठ पल्लवौ ‖ 5 ‖

जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः |
वाचं विनायकः पातु दन्तान्^^ रक्षतु दुर्मुखः ‖ 6 ‖

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः |
गणेशस्तु मुखं पातु कण्ठं पातु गणाधिपः ‖ 7 ‖

स्कन्धौ पातु गजस्कन्धः स्तने विघ्नविनाशनः |
हृदयं गणनाथस्तु हेरम्बो जठरं महान् ‖ 8 ‖

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः |
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः ‖ 9 ‖

गजक्रीडो जानु जङ्घो ऊरू मङ्गलकीर्तिमान् |
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदावतु ‖ 10 ‖

क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः |
अङ्गुलीश्च नखान् पातु पद्महस्तो रिनाशनः ‖ 11 ‖

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदावतु |
अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ‖ 12 ‖

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु |
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ‖ 13 ‖

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः |
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ‖ 14 ‖

कौबेर्यां निधिपः पायादीशान्याविशनन्दनः |
दिवाव्यादेकदन्त स्तु रात्रौ सन्ध्यासु यःविघ्नहृत् ‖ 15 ‖

राक्षसासुर बेताल ग्रह भूत पिशाचतः |
पाशाङ्कुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ‖ 16 ‖

ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् | ई
वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ‖ 17 ‖

सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा |
कपिलो जानुकं पातु गजाश्वान् विकटोवतु ‖ 18 ‖

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः |
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ‖ 19 ‖

त्रिसन्ध्यं जपते यस्तु वज्रसार तनुर्भवेत् |
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ‖ 20 ‖

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् |
मारणोच्चाटनाकर्ष स्तम्भ मोहन कर्मणि ‖ 21 ‖

सप्तवारं जपेदेतद्दनानामेकविंशतिः |
तत्तत्फलमवाप्नोति साधको नात्र संशयः ‖ 22 ‖

एकविंशतिवारं च पठेत्तावद्दिनानि यः |
कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ‖ 23 ‖

राजदर्शन वेलायां पठेदेतत् त्रिवारतः |
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ‖ 24 ‖

इदं गणेशकवचं कश्यपेन सविरितम् |
मुद्गलाय च ते नाथ माण्डव्याय महर्षये ‖ 25 ‖

मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् |
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ‖ 26 ‖

अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् |
राक्षसासुर बेताल दैत्य दानव सम्भवाः ‖ 27 ‖

‖ इति श्री गणेशपुराणे श्री गणेश कवचं सम्पूर्णम् ‖

About Ashok Kanumalla

Ahsok

Check Also

gayatri kavacham in hindi-गायत्री कवचम्

  नारद उवाच स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभो चतुषष्टि कलाभिज्ञ पातका द्योगविद्वर मुच्यते केन पुण्येन …

Leave a Reply

Your email address will not be published. Required fields are marked *