nirvaana shatkam in hindi-निर्वाण षट्कम्

nirvaana shatkam in hindi
lord shiva nirvaana shatkam in hindi

 

शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं

मनो बुध्यहङ्कार चित्तानि नाहं
न च श्रोत्र जिह्वा न च घ्राणनेत्रं |
न च व्योम भूमिर्-न तेजो न वायुः
चिदानन्द रूपः शिवोहं शिवोहं ‖ 1 ‖

अहं प्राण संज्ञो न वैपञ्च वायुः
न वा सप्तधातुर्-न वा पञ्च कोशाः |
नवाक्पाणि पादौ न चोपस्थ पायू
चिदानन्द रूपः शिवोहं शिवोहं ‖ 2 ‖

न मे द्वेषरागौ न मे लोभमोहो
मदो नैव मे नैव मात्सर्यभावः |
न धर्मो न चार्धो न कामो न मोक्षः
चिदानन्द रूपः शिवोहं शिवोहं ‖ 3 ‖

न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्धं न वेदा न यज्ञः |
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्द रूपः शिवोहं शिवोहं ‖ 4 ‖

अहं निर्विकल्पो निराकार रूपो
विभूत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् |
न वा बन्धनं नैव मुक्ति न बन्धः |
चिदानन्द रूपः शिवोहं शिवोहं ‖ 5 ‖

न मृत्युर्-न शङ्का न मे जाति भेदः
पिता नैव मे नैव माता न जन्म |
न बन्धुर्-न मित्रं गुरुर्नैव शिष्यः
चिदानन्द रूपः शिवोहं शिवोहं ‖ 6 ‖

शिवोहं शिवोहं, शिवोहं शिवोहं, शिवोहं शिवोहं

About Ashok Kanumalla

Ahsok

Check Also

gayatri kavacham in hindi-गायत्री कवचम्

  नारद उवाच स्वामिन् सर्वजगन्नाध संशयोऽस्ति मम प्रभो चतुषष्टि कलाभिज्ञ पातका द्योगविद्वर मुच्यते केन पुण्येन …

Leave a Reply

Your email address will not be published. Required fields are marked *