Tag Archives: hanuman pancha ratnam in hindi pdf

hanuman pancha ratnam in hindi-हनुमत्पञ्चरत्नम्

  वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ‖ 1 ‖ तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् सञ्जीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ‖ 2 ‖ शम्बरवैरिशरातिगमम्बुजदल विपुललोचनोदारम् कम्बुगलमनिलदिष्टं बिम्बज्वलितोष्ठमेकमवलम्बे ‖ 3 ‖ दूरीकृतसीतार्तिः प्रकटीकृतरामवैभवस्फूर्तिः दारितदशमुखकीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ‖ 4 ‖ वानरनिकराध्यक्षं दानवकुलकुमुदरविकरसदृशम् दीनजनावनदीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ‖ 5 ‖ एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् चिरमिह …

Read More »